संस्कृतसंवादस्मृतिः – Sanskrit Samvadah Rewind
СтатистикаRewinding the clock to experience the timeless, vintage archives of @samvadah once again.
- Последний пост
- 29 июл.
- Последнее чтение
- 20:04
- Постов за неделю
- 0
- Всего постов
- 20
- Тип
- открытый
- Язык
- английский
- В каталоге с
- 13 авг.
- 1/24сутки в ленте
- 34
- 1/48двое суток
- 38
- 1/72трое суток
- 42
Оценка по просмотрам недавних постов: пост набирает почти всё за первые сутки.
Посты
#hasya
१। चौरः वस्त्रेण शिशुं प्रच्छाद्य नयति। - The thief carries away the baby after wrapping in clothes. - चोर शिशु को कपड़ों में लपेटकर ले जाता है। २। रामः दशरथस्य मृत्युं न जानाति। - Rama does not know about Dasharatha's death. - राम दशरथ की मृत्यु के बारे में नहीं जानते। ३। कीदृग् अयं प्रकल्पः ते। - What kind of plan is this of yours? - तुम्हारी यह कैसी योजना है? ४। तव नाम्ना सर्वे बिभ्यति। - Everyone is afraid of your name. - तुम्हारे नाम से सब डरते हैं। ५। मम रथे धनुः रक्षितम्। - My bow is kept in the chariot. - मेरा धनुष रथ में रखा हुआ है। ६। कुत्र गच्छसि तात। - Where are you going, sir? - कहाँ जा रहे हैं, तात? ७। बालिका मातरं दृष्ट्वा हसति। - The girl laughs after seeing the mother. - लड़की अपनी माँ को देखकर हँसती है। ८। अर्जुनः नर्तकः अपि आसीत्। - Arjuna was also a dancer. - अर्जुन नर्तक भी था। ९। विद्याधरः मूर्खः अस्ति। - Vidhyadhara is foolish. - विद्याधर मूर्ख है। १०। तस्य मुखदर्शनं नाम पापम्। - Seeing his face is a sin. - उसका मुँह देखना पाप है। @samvadah #Vakyabhyas
#hasya
पञ्चवादने कुक्कुटाः कूजन्ति। - The roosters crow at 5'o Clock. - मुर्गे पाँच बजे बाँग देते हैं। बिडालः दुग्धं चोरयते। - The tomcat steals the milk. - बिल्ला दूध चुराता है। मम मतिः दुष्टा अस्ति। - My thinking is wicked. - मेरी मति दुष्ट है। तेषां जन्म सफलं गतम्। - Their birth has been successful. - उनका जन्म सफल गया। महान् पण्डितः एषः दामोदरः अस्ति। - This great scholar is Damodara. - यह महान् विद्वान् दामोदर है। अहं भवते धनं दातुं न इच्छामि। - I do not wish to give you money. - मैं आपको धन देना नहीं चाहता। किमर्थं मां दुष्यसि। - Why do you insult me? - तुम मुझे क्यों दूषते हो? सा कन्या पाककुशला अस्ति। - That girl is skilled in cooking. - वह कन्या खाना पकाने में कुशल है। प्रधानमन्त्री अद्य वदतु। - The Prime Minister should speak today. - प्रधानमंत्री आज बोलें। बालैः उक्तं कथम् एतत्। - The children said How So? - बच्चों ने कहा ऐसा कैसे? @samvadah #vakyabhyas
भटः। जयतु महाराजः। राजा। अपूर्व इव ते हर्षो ब्रूहि केनासि विस्मितः। भटः। अश्रद्धेयं प्रियं प्राप्तं सौभद्रो ग्रहणं गतः॥ राजा। कथमिदानीं गृहीतः। भटः। रथमासाद्य निश्शङ्ंक बाहुभ्यामवतारितः। राजा। केन। भटः। यः किल एष नरेन्द्रेण विनियुक्तो महानसे। अभिमन्युमुद्दिश्य इत इतः कुमारः। अभिमन्युः। भोः को नु खल्वेषः। येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि। बृहन्नला। इत इतः कुमारः। अभिमन्युः। अये अयमपरः कः विभात्युमावेषमिवाश्रितो हरः। बृहन्नला। आर्य अभिभाषणकौतूहलं मे महत्। वाचालयत्वेनमार्यः। वल्लभः। अपवार्य बाढम् प्रकाशम् अभिमन्यो। अभिमन्युः। अभिमन्युर्नाम। वल्लभः। रुष्यत्येष मया त्वमेवैनमभिभाषय। बृहन्नला। अभिमन्यो। अभिमन्युः। कथं कथम्। अभिमन्युर्नामाहम्। भोः किमत्र विराटनगरे क्षत्रियवंशोद्भूताः नीचैः अपि नामभिः अभिभाष्यन्ते अथवा अहं शत्रुवशं गतः। अतएव तिरस्क्रियते। बृहन्नला। अभिमन्यो सुखमास्ते ते जननी। अभिमन्युः। कथं कथम्। जननी नाम। किं भवान् मे पिता अथवा पितृव्यः। कथं मां पितृवदाक्रम्य स्त्रीगतां कथां पृच्छति। बृहन्नला। अभिमन्यो अपि कुशली देवकीपुत्रः केशवः। अभिमन्युः। कथं कथम्। तत्रभवन्तमपि नाम्ना। अथ किम् अथ किम्। बृहन्नलावल्लभौ परस्परमवलोकयतः। अभिमन्युः। कथमिदानीं सावज्ञमिव मां हस्यते। बृहन्नला। न खलु किञ्चित्। पार्थंपितरमुद्दिश्य मातुलं च जनार्दनम्। तरुणस्य कृतास्त्रस्य युक्तो युद्धपराजयः॥ अभिमन्युः। अलं स्वच्छन्दप्रलापेन अस्माकं कुले आत्मस्तवं कर्तुमनुचितम्। रणभूमौ हतेषु शरान् पश्य मदृते अन्यत् नाम न भविष्यति। बृहन्नला। एवं वाक्यशौण्डीर्यम्। किमर्थं तेन पदातिना गृहीतः। अभिमन्युः। अशस्त्रं मामभिगतः। पितरम् अर्जुनं स्मरन् अहं कथं हन्याम्। अशस्त्रेषु मादृशाः न प्रहरन्ति। अतः अशस्त्रोऽयं मां वञ्चयित्वा गृहीतवान्। #samvadah
दाक्षायणीमपि सतीं सुरुचिं रवीन्दुसाहस्रकोटिरुचिकां परितः स्मरामः । श्यामासि चन्द्रधवलासि च हेमगौरी रक्तासि चित्तमनुरूपतनुं स्मरामः॥ We remember the daughter of daksha, Satī, who's a great delight and like crores of suns and moons combined all around. You are black and radiant like a moon and also red and yellow. We contemplate (your) heartly accomodated form. ॥ बृहद्धर्मपुराणम्। ४१।२७ ॥ #dhyana
#hasya
त्वं मां किमर्थम् अवमन्यसे तात। - Why do you disrespect me, sir? - आप मुझे क्यों अपमानित करते हैं, तात? सा सर्वदा प्रियं वदति। - She always speaks sweetly. - वह हमेशा प्रिय कहती है। मर्कटः धनं हृत्वा धावति। - The monkey runs away after stealing the money. - बंदर धन चोरी करके भागता है। तस्य नाम न जानामि। - I don't know his name. - मुझे उसका नाम नहीं पता। रामस्य बलम् अवेक्ष्य सर्वे विस्मिताः सन्ति। - All are amazed after witnessing Rama's strength. - सभी लोग राम का बल देखकर विस्मित हैं। तव सान्निध्यं न अपेक्षितं मया। - I did not expect your presence. - मैंने तुम्हारे उपस्थिति की अपेक्षा नहीं की थी। तव कति भ्रातरः सन्ति। - How many brothers do you have? - तुम्हारे कितने भाई हैं? मकरस्य दन्ताः वज्रम् इव सन्ति। - The teeth of a crocodile are like Vajra. - मगरमच्छ के दांत वज्र के समान होते हैं। द्वारपालाः कार्यं न कुर्वन्ति। - The gatekeepers are not doing their duty. - द्वारपाल कार्य नहीं कर रहे हैं। राज्ञः समीपं न बहु वक्तव्यम्। - Much shouldn't be spoken near the king. - राजा के पास बहुत नहीं बोलना चाहिए। @samvadah #vakyabhyas
📢 Whatsapp group Invitation: रसिकरञ्जिनी (18+ Only) Are you interested in exploring classical Sanskrit literature, uncensored shlokas, and adult texts with translations and context? We invite you to join रसिकरञ्जिनी — a dedicated space for adults to access, share, and discuss explicit Sanskrit works. 📚 What to expect: • Access to explicit adult Sanskrit shlokas and classical texts (Kama Shastra, Shringara, etc.) • Full translations and contextual explanations • Open space to ask queries, request translations, and engage in literary adult discussions 🔞 Note: This group is strictly 18+ only and contains explicit adult textual content. 🔗 Join via Link: https://chat.whatsapp.com/E1CEzVkijTgLO5OtHja1cD
श्वेतकेतुः। भगवन् श्वेतकेतुरहं वन्दे। आरुणिः। वत्स चिरञ्जीव। श्वेतकेतुः। भगवन् किञ्चित्प्रष्टुमिच्छामि। आरुणिः। वत्स किमद्य त्वया प्रष्टव्यमस्ति। श्वेतकेतुः। भगवन् ज्ञातुम् इच्छामि यत् किमिदं मनः। आरुणिः। वत्स अशितस्यान्नस्य योऽणिष्ठः तन्मनः। श्वेतकेतुः। कश्च प्राणः। आरुणिः। पीतानाम् अपां योऽणिष्ठः स प्राणः। श्वेतकेतुः। भगवन् का इयं वाक्। आरुणिः। वत्स अशितस्य तेजसा योऽणिष्ठः सा वाक्। सौम्य मनः अन्नमयं प्राणः आपोमयः वाक् च तेजोमयी भवति इत्यप्यवधार्यम्। श्वेतकेतुः। भगवन् भूय एव मां विज्ञापयतु। आरुणिः। सौम्य सावधानं शृणु। मथ्यमानस्य दध्नः योऽणिमा स ऊर्ध्वः समुदीषति तत्सर्पिः भवति। श्वेतकेतुः। भगवन् भवता घृतोत्पत्तिरहस्यम् व्याख्यातम्। भूयोऽपि श्रोतुमिच्छामि। आरुणिः। एवमेव सौम्य अश्यमानस्य अन्नस्य योऽणिमा स ऊर्ध्वः समुदीषति। तन्मनो भवति। अवगतं न वा। श्वेतकेतुः। सम्यगवगतं भगवन् आरुणिः। वत्स पीयमानानाम् अपां योऽणिमा स ऊर्ध्वः समुदीषति स एव प्राणो भवति। श्वेतकेतुः। भगवान् वाचमपि विज्ञापयतु। आरुणिः। सौम्य अश्यमानस्य तेजसो योेऽणिमा स ऊर्ध्वः समुदीषति। सा खलु वाग्भवति। वत्स उपदेशान्ते भूयोऽपि त्वां विज्ञापयितुमिच्छामि यत् अन्नमयं भवति मनः आपोमयो भवति प्राणाः तेजोमयी च भवति वागिति। किञ्च यादृशमन्नादिकं गृह्णाति मानवस्तादृशमेव तस्य चित्तादिकं भवतीति मदुपदेशसारः। वत्स एतत्सर्वं हृदयेन अवधारय। श्वेतकेतुः। यदाज्ञापयति भगवन्। एष प्रणमामि। आरुणिः। वत्स चिरञ्जीव। तेजस्वि नौ अधीतम् अस्तु। आवयोः अधीतम् तेजस्वि अस्तु इत्यर्थः। छान्दोग्योपनिषद: षष्ठाध्यायस्य पञ्चमखण्डात् #samvadah
रामस्य हर्षदा या च यस्या रामोऽपि हर्षदः। तस्यै रामसमानायै श्रीसीतायै सुमङ्गलम्॥ Who's the source of joy of Rama and whose source of joy is Rama, Be auspicious to her, Shri Sitā who's just like Rama. ॥ श्रीसीतामङ्गलमाला। ४० ॥ #dhyana
#hasya
१। तस्य पिता कार्यालयं याति। - His father goes to the office. - उसके पिता कार्यालय जाते हैं। २। तस्य स्यूते धनं नास्ति। - There is no money in his bag. - उसकी थैले में पैसा नहीं है। ३। मम माता पितृव्या सह मिलति। - My mother meets with aunty. - मेरी माँ चाची से मिलती हैं। ४। वरस्य पितरौ वधूम् अन्विषतः। - The groom's parents seek a bride. - दुल्हे के माता-पिता दुल्हन की खोज में हैं। ५। कति आम्राणि त्वया खादितानि। - How many mangoes have you eaten? - तुमने कितने आम खाए हैं? ६। त्वं किमर्थं क्रुद्धः असि। - Why are you angry? - तुम क्यों गुस्से में हो? ७। सा मां न अभिजानाति। - She does not recognize me. - वह मुझे पहचानती नहीं है। ८। तस्य पुत्राः मां हे मातुल इति वदन्ति। - His sons address me as "uncle". - उसके बेटे मुझे "मामा" कहकर बुलाते हैं। ९। त्वया विना आम्रम् अपि निम्बः इव भाति माम्। - Without you, even the mango appears like a Neem. - तुम्हारे बिना आम भी मुझे नीम की तरह लगता है। १०। बालाः वटस्य अधः क्रीडन्ति। - The children play beneath the banyan tree. - बच्चे बरगद के नीचे खेलते हैं। @samvadah #vakyabhyas
पञ्चमं दृश्यम् मासानन्तरं सन्ध्याकालः। एकत्र रिक्ताः नूतनघटाः सन्ति। दुग्धक्रेतारः अन्ये च ग्रामवासिनः अपरत्र आसीनाः। चन्दनः। धेनुं प्रणम्य मङ्गलाचरणं विधाय मल्लिकाम् आह्वयति मल्लिके सत्वरम् आगच्छ। मल्लिका। आयामि नाथ दोहनम् आरभस्व तावत्। चन्दनः। यदा धेनोः समीपं गत्वा दोग्धुम् इच्छति तदा धेनुः पृष्ठपादेन प्रहरति। चन्दनश्च पात्रेण सह पतति नन्दिनि दुग्धं देहि। किं जातं ते। पुनः प्रयासं करोति नन्दिनी च पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञि्तं करोति हा हतोऽस्मि। चीत्कारं कुर्वन् पतति सर्वे आश्चर्येण चन्दनम् अन्योन्यं च पश्यन्ति मल्लिका। चीत्कारं श्रुत्वा झटिति प्रविश्य नाथ किं जातम्। कथं त्वं रक्तरञ्जितः। चन्दनः। धेनुः दोग्धुम् अनुमतिम् एव न ददाति। दोहनप्रक्रियाम् आरभमाणम् एव ताडयति माम्। मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते। किन्तु धेनुः दुग्धहीना एव इति अवगच्छति। मल्लिका। चन्दनं प्रति नाथ अत्यनुचितं कृतम् आवाभ्याम् यत् मासपर्यन्तं धेनोः दोहनं कृतम्। सा पीडम् अनुभवति। अत एव ताडयति। चन्दनः। देवि मयापि ज्ञातं यत् अस्माभिः सर्वथा अनुचितमेव कृतं यत् पूर्णमासपर्यन्तं दोहनं न कृतम्। अत एव दुग्धं शुष्कं जातम्। सत्यमेव उक्तम्। कार्यमद्यतनीयं यत् तदद्यैव विधीयताम्। विपरीते गतिर्यस्य स कष्टं लभते ध्रुवम्॥ मल्लिका। आम् भर्तः सत्यमेव। मयापि पठितं यत्। सुविचार्य विधातव्यं कार्यं कल्याणकाङ्क्षिणा। यः करोत्यविचार्यैतत् स विषीदति मानवः॥ किन्तु प्रत्यक्षतया अद्य एव अनुभूतम् एतत्। सर्वे। दिनस्य कार्यं तस्मिन्नेव दिने कर्तव्यम्। यः एवं न करोति सः कष्टं लभते ध्रुवम्। जवनिका पतनम् सर्वे मिलित्वा गायन्ति। आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः। क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्॥ #samvadah
कराभ्यां परशुं चापं दधानं रेणुकात्मजम् । जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकम्॥ I worship Lord Rāma, the son of Jamadagni, the progeny of Bhṛgu, the destroyer of the kṣatriyas, the son of Renuka who's holding an axe and a bow in both hands. ॥ परशुरामस्तोत्रम् । १॥ #dhyana
#hasya
१. कूपं परितः स्त्रियः हसन्ति। - Women laugh around the well. - स्त्रियाँ कुएं के चारों ओर हँसती हैं। २. तस्याः मार्गे शुनकः शेते। - A dog sleeps on her path. - उसके मार्ग में एक कुत्ता सोता है। ३. सः सिंहात् बिभेति। - He fears a lion. - वह शेर से डरता है। ४. तस्य ग्रामे कः अपि धनिकः नास्ति। - There is no rich person in his village. - उसके गाँव में कोई धनी नहीं है। ५. आवां कालिकापुरं गच्छावः। - We both go to Kalikapuram. - हम दोनों कालिकापुर जाते हैं। ६. तस्य नेता भ्रष्टः अस्ति। - His leader is corrupt. - उसका नेता भ्रष्ट है। ७. मम मनः आधिग्रस्तं कृतम्। - My mind is suffering illness. - मेरा मन आधि से ग्रस्त है। ८. गुरुः उत्तरं जानाति। - The Guru knows the answer. - गुरु उत्तर जानते हैं। ९. जन्म एव मृत्युः इति बुद्धवचनम्। - Birth is indeed death, so says the Buddha. - जन्म ही मृत्यु है, ऐसा बुद्ध का कहना है। १०. बालगोविन्दः कबीरं भजते। - Balagovind worships Kabir. - बालगोविन्द कबीर को भजते है। @samvadah #vakyabhyas
видео или голосовое, без подписи
तृतीयं दृश्यम् चन्दनः। प्रसन्नो भूत्वा अङ्गुलिषु गणयन् अहो सेटकत्रिशतकानि पयांसि अनेन तु बहुधनं लप्स्ये। नन्दिनीं दृष्ट्वा भो नन्दिनि तव कृपया तु अहं धनिकः भविष्यामि। प्रसन्नः सः धेनोः बहुसेवां करोति चन्दनः। चिन्तयति मासान्ते एव दुग्धस्य आवश्यकता भवति। यदि प्रतिदिनं दोहनं करोमि तर्हि दुग्धं सुरक्षितं न तिष्ठति। इदानीं किं करवाणि। भवतु नाम मासान्ते एव सम्पूर्णतया दुग्धदोहनं करोमि। एवं क्रमेण सप्तदिनानि व्यतीतानि। सप्ताहान्ते मल्लिका प्रत्यागच्छति मल्लिका। प्रविश्य स्वामिन् प्रत्यागता अहम्। आस्वादय प्रसादम्। चन्दनः मोदकानि खादति वदति च चन्दनः। मल्लिके तव यात्रा तु सम्यक् सफला जाता। काशीविश्वनाथस्य कृपया प्रियं निवेदयामि। मल्लिका। साश्चर्यम् एवम्। धर्मयात्रातिरिक्तं प्रियतरं किम्। चन्दनः। ग्रामप्रमुखस्य गृहे महोत्सवः मासान्ते भविष्यति। तत्र त्रिशतसेटकमितं दुग्धम् अस्माभिः दातव्यम् अस्ति। मल्लिका। किन्तु एतावन्मात्रं दुग्धं कुतः प्राप्स्यामः। चन्दनः। विचारय मल्लिके प्रतिदिनं दोहनं कृत्वा दुग्धं स्थापयामः चेत् तत् सुरक्षितं न तिष्ठति। अत एव दुग्धदोहनं न क्रियते। उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः। मल्लिका। स्वामिन् त्वं तु चतुरतमः। अत्युत्तमः विचारः। अधुना दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवाम् एव करिष्यावः। अनेन अधिकाधिकं दुग्धं मासान्ते प्राप्स्यावः। द्वावेव धेनोः सेवायां निरतौ भवतः। अस्मिन् क्रमे घासादिकं गुडादिकं च भोजयतः। कदाचित् विषाणयोः तैलं लेपयतः तिलकं धारयतः रात्रौ नीराजनेनापि तोषयतः चन्दनः। मल्लिके आगच्छ। कुम्भकारं प्रति चलावः। दुग्धार्थं पात्रप्रबन्धोऽपि करणीयः। द्वावेव निर्गतौ चतुर्थं दृश्यम् कुम्भकारः। घटरचनायां लीनः गायति ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्। जीवनं भङ्गुरं सर्वं यथैष मृत्तिकाघटः॥ चन्दनः। नमस्करोमि तात पञ्चदश घटान् इच्छामि। किं दास्यसि। देवेश। कथं न। विक्रयणाय एव एते। गृहाण घटान्। पञ्चशतोत्तररूप्यकाणि च देहि। चन्दनः। साधु। परं मूल्यं तु दुग्धं विक्रीय एव दातुं शक्यते। देवेशः। क्षम्यतां पुत्र मूल्यं विना तु एकमपि घटं न दास्यामि। मल्लिका। स्वाभूषणं दातुमिच्छति तात यदि अधुनैव मूल्यम् आवश्यकं तर्हि गृहाण एतत् आभूषणम्। देवेशः। पुत्रिके नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु। उभौ। धन्योऽसि तात धन्योऽसि। #samvadah
सप्तद्वीपपतिश्चित्तं सप्तव्याहृतिरूपवान् । कटिं मे सप्तसंस्थार्थदायकः सक्थिनी मम॥ The lord of the seven continents (protect) the heart. The embodiment of the mystical utterance of the names of the seven worlds (viz. Bhūḥ, Bhuvaḥ, Svaḥ, Mahaḥ, Janaḥ, Tapaḥ, satyam) (protect) my hip. The grantor (of resources) for the seven sacrifices (protect) my thighs. ॥ सप्तमुखिहनुमत्कवचम् । ६॥ #dhyana